MP Board Class 8th Sanskrit पत्र-लेखनम्

1. अवकाशार्थं प्रार्थनापत्रम्
(अवकाश के लिए प्रार्थना पत्र)

सेवायाम्
श्रीमन्तः प्रधानाचार्यमहोदयाः
राजकीयः विद्यालयः
भोपालनगरम्

महोदयाः!
सविनयं निवेदनम् अस्ति यत् गतगुरुवासरतः अहं ज्वरेण अतीव पीडितोऽस्मि। एतेन कारणेन विद्यालयम् आगन्तुं न शक्नोमि। अत एव दिनत्रयस्य अवकाशार्थं भवन्तं प्रार्थये।
दिनाङ्क : १/०८/२००७

भवताम् आज्ञानुवर्ती शिष्यः
संजय शर्मा
कक्षा अष्टम्

MP Board Solutions

2. अनुजं प्रति पत्रम्
(छोटे भाई को पत्र)

इन्दौरनगरतः
दिनाङ्क : ५-१०-२००७

प्रिय रमेशः!
चिरंजीव!
आवयोः माता स्वपत्रेण सूचयति यत् तव मनः अध्ययने पूर्ववत् न भवति। प्रायेण त्वं क्रीडने एव संलग्नः भवति। इदं तु अशोभनम् अस्ति। अयं तव जीवनस्य निर्माणकालः। अध्ययनमेव तव जीवनम् उन्नेष्यति।

शुभेच्छुः
राजेशः

3. शुल्क मुक्तये प्रार्थना-पत्रम्
(शुल्क मुक्ति के लिए प्रार्थना-पत्र)

सेवायाम्
श्रीमन्तः प्रधानाचार्यमहोदयाः
राजकीयः विद्यालयः
भोपालनगरम्

मान्याः!
अहम् भवतां विद्यालये अष्टकक्षायाम् अध्ययनं करोमि। मम। पिता एकः साधारणतः कर्मकरः अस्ति। तस्य श्रमेण परिवारस्य पालनमपि कठिनम् अस्ति। अतः अहम् शिक्षणशुल्कं दातुम् असमर्थोऽस्मि। निवेदनम् अस्ति यत् शुल्कात् मुक्तिं प्रदाय मयि कृपां करिष्यन्ति भवन्तः।
दिनाङ्क : १०/०७/२००७

भवताम् आज्ञाकारी शिष्यः
मनोजः
कक्षा-अष्टम्

MP Board Solutions

MP Board Class 8th Sanskrit Solutions