MP Board Class 9th Sanskrit निबन्ध-रचना
1. पाठशाला
यत्र गत्वा बालकाः विद्यां गृहणन्ति तत्स्थानं पाठशालेति कथ्यते। पाठशालां गत्वा बालकाः शिक्षकान् प्रणमन्ति। ततः प्रार्थना कृत्वा पाठं पठन्ति। मध्यान्हकालेऽवकाशो भवति। तदा सर्वे स्वल्पाहारं कुर्वन्ति। अवकाशस्य समाप्तौ पुनरप्यध्ययनं कुर्वन्ति सर्वे।
मम कक्षायां पञ्चत्वारिंशत् छात्राः सन्ति। तत्र कश्चिद् बालिका आपि सन्ति। वयं तासु भगिनीवत् स्निह्यामः। पाठशालायां बहवोऽध्यापका वर्तन्ते। तें सर्वेऽपि स्वविषये प्रवीणाः विद्यन्ते। तेषु केचित्तु महाविद्वांसः सन्ति। तेऽस्मान् पुत्रवत् मन्यते। मम सहपाठिनोऽपि परिश्रमिणः सच्चरित्रश्च। केचित्त वे केवलमध्ययने पुस्युत क्रीडासु भाषणकलायाम् अभिनये चापि चतुराः वर्तन्ते।
मम पाठशालायां अध्ययस्यान्ते व्यायामस्य क्रीडनस्य चापि व्यवस्था वर्तने। तत्रेकः पुस्तकालयोऽप्यस्ति। वयं ततः गुस्तकानि आनीय गृहे पठाम्ः। सत्रमध्ये एकदा स्नेहसम्मेलनमपि भवति। तदन्ते च पुरस्कार-वितरंण जायते।
मम पाठशाला मेऽतीव प्रिया। विद्वान चरित्रवान् च भूत्वा अहमस्याः कीर्ति वर्धयिष्यापि।
2. विद्या
यया जना विदन्ति जानन्ति वा सा विद्या। विद्या सर्वेषां धनाना श्रेष्ठं धनमस्ति। उच्यते च “विधाधनं सर्वधनप्रधानम्” एतयैव मनुष्यो मनुष्यो भवति अन्यथ “विद्याविहीनः पशुः”। इदं चौराश्चोरयितुं वान्धवाश्च विभाजयितुं न शक्नुवन्ति। कथ्यते च ‘न चौरहार्य न च भ्रातृभाज्यम्।’ व्यये कृते इदं धनं वर्धते एव। विद्वांसः सर्वत्र पूज्यन्ते। विदेशे गमने परम सहायिक भवति। यस्य विद्या नास्ति सः नेत्रयुक्तोऽपि अन्धः एवं विद्याबलेन जनाः विविधानाविष्कारान कर्तुं समर्था भवन्ति। विद्याया बहनि अङ्गानि। नहि कोऽपि सर्वेषु विषयेषु पारदृश्वा भवितुं शक्नोति। परमस्मिन कस्मिश्चिद् विषये निष्णातो भवितु अर्हति। अतः प्रमादं त्यक्त्वा विद्याध्ययनं तत्पराः भवायुर्यतः विद्यास्माकं परोपकारिणी।
उक्तञ्च-
मातेव रक्षति पितव हिते नियुङ्क्ते,
कान्तेव चाभिरमयत्यपनीय खेदम्।
लक्ष्मी तनोति वितनोति च दिक्षु कीर्तिम्,
किं किं न साधयति कल्पलतेव विद्या॥
3. पुस्तकम्
एतद् मम पुस्तकम् अस्ति। एतद् तव पुस्तकम् अस्ति। रामस्य अपि पुस्तकम् अस्ति। एतानि सर्वाधि पुस्तकानि सन्ति। मम पुस्तके चित्राणि सन्ति। एतानि चित्राणि रम्याणि सन्ति। रमणीयं चित्रं मम चित्रं आनन्दयति। सचित्र पुस्तकं मम प्रियम्। तव पुस्तकोऽपि चित्राणि सन्ति, किन्तु रामस्य पुस्तके एकम् अपि चित्रं नास्ति। अहं पाठशाला गच्छामि पुस्तकं नयामि च। अध्यापकः प्रथमं पुस्तकम् उद्घाटयति वाचयति च। पश्चात् अहं पुस्तकं उद्घाटयामि पाठं वाचयामि च। वयं सर्वे पुस्तकानि उद्घाटयामः पाठान् पठामश्च। पुस्तकैः विविधार्थं ज्ञान् लभ्यते। पुस्तक-पठनेन ज्ञानलाभः भवति। संस्कृति व्याकरणानुवाद पुस्तकम् अत्तिप्रियम्।।
पुस्तकानि अस्माकं मित्राणि। एतेषां अङ्गतिरतीव लाभप्रदा। एषु वयं वाल्मीकि-कालिदास-शंकराचार्यादीनां। महात्मनां साक्षाद् दर्शनं कुर्मः। अतोऽस्माभिः पुस्तकानि रक्षणीयानि। तेषु यत्र कुत्रचित् न लेखनीयम्। स्वगृहे च स्वल्पः पुस्तकालयों निर्मातव्यः।
4. सरस्वती
सरस्वती विद्यायाः देवता। एषा शरीरे शुभ्र वस्त्र धारयति। अस्याः कण्ठे रत्नहाराः विलसन्ति। मस्तके एषा किरीटं धारयति। किरीटं रत्नखचित् वर्तते-एषा किरीटेन अतीव शोभते। एषा वामेन हस्तेन वीणायाः दण्डं धारयति, दक्षिणेन हस्तेन तां वादयति च। सरस्वत्याः प्रसादेन कवयः सरस्वर्ती काव्यकुसमैः पूजयन्ति। तेषां पूजया सा संतुष्टा भवति। तेभ्यः वरं यच्छति च।
सरस्वत्याः वाहनं हंस इति कथ्यते। हंसो नीरक्षीरविवेकाय प्रसिद्धाः एवं छात्रः विद्यामधीत्य सत्यासत्यविवेचने चतुरा भवेयुः। हंसस्य वर्णः धवलः। स च चरित्रस्य उज्जवलतां बोधयति। विधार्थिनां चरित्रं दोषरहित स्यात्। सरस्वत्या अपि वस्त्राणि धवलानि तानि च चरित्रस्य निर्मलतायाः सूचकानि। तस्या हस्ते पुस्तकं च ज्ञानस्य चिह्नम्। विद्याकला-चरित्राणां संगमस्थली एषा देवता। इयमस्माकमाराध्या पूज्या च। तस्या एषा स्तुतिः।
या कुन्देन्दु-तुषारहारधवला या शुभ्रवस्त्रावृता,
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता,
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥
5. उद्यानम्
एमद् उद्यानम्। अत्र वृक्षाः रोहन्ति। एषः तुङ्गविशालः च। वृक्षाः पर्णैः च शोभन्ते। पर्णानां वर्णाः हरित पुष्पाणां च वर्णाः विविधाः। पक्वानि फलानि अपि वृक्षाणां भूषणानि। वृक्षाणां शाखाः फलानां भारेण नमन्ति। जनाः वृक्षाणां फलानि भक्षयन्ति। एषा लता। उपवने लताः अपि रोहन्ति। लताः वृक्षान् आश्रयन्ति। लतानां कुसुमानि श्वतानि, पीतानि, नीलानि, रक्तानि व सन्ति। उपवने तड़ागः अपि अस्ति। मालाकारः तस्मात् जलं आनयति। सः वृक्षान् जलेन सिञ्चिति। सः लताः अपि सिञ्चति। तड़ागस्य तीरे वृक्षाः सन्ति। वृक्षाणां छायासु जनाः विश्राम्यन्ति तड़ागस्य च जलं पिबन्ति। खगाः वृक्षेषु वसन्ति। ते तत्र नीडान रचयन्ति। खगाः अपि वृक्षाणां फलानि खादन्ति। प्रभाते तेषां जनं मनोहरम् वर्तमान काले। वृक्षारोपण कार्य तीव्रगत्या भवति स्वागतम् वनशोभायाः।
6. शिक्षकः
शिक्षयति शिक्षां ददाति यः स शिक्षकः इति कथ्यते। प्राचीनकाले शिक्षकः गुरु आचार्य इति कश्यतेस्म शिक्षकः छातम्यः शिक्षां ददाति तेषां जीवनस्य निर्माण च करोति। ये शिक्षकाः स्वविषये निपुणाः भवन्ति ते सफल शिक्षकाः भवन्ति। ये शिक्षकाः स्वविषये प्रवीणाः आदर्शचरित्राश्च भवन्ति ते सर्वत्र आहृयता भवन्ति। एतादृशः शिक्षकः राष्ट्रनिर्माता इत्यादि। कथ्यते। शिक्षकः छात्राणाम् अज्ञानान्धकारं दूरी करोति छात्राः शिक्षकाणां चरित्रस्य अनुकरणं कुर्वन्ति। अतः शिक्षकस्य समाजे राष्ट्रे च सम्मानं भवति अस्माकं देशे प्रतिवर्ष सितम्बर मासस्य पंचतारिकायं ‘शिक्षक दिवसः आयोज्यते। अस्माकं राष्ट्रपति महोदेयाः शिक्षकान् सम्मानं च कुर्वन्ति। अतः राष्ट्रस्य उन्नत्यै शिक्षकाणाम् आदरो विधेयः।
7. धेनुः
धिनोति प्रीणयति इति धेनुः स्वदुग्धेन स्वरूपेण च जनान् प्रीणयति। जनाः धेनुं गौमाता अपि कथयन्ति अस्याः चत्वारः पादाः। शृंगे एक लांगूलं च भवति धेनुनां विविधाः वर्णाः भवन्ति। धेनुः तृणाः भयित्वा जनेभ्यः मधुर पयः प्रयच्छति, धेनोः वत्साः वलीवर्दाः भवन्ति कृषीबलानां कृते उपयोगिनः भवन्ति। धेनोः गोमयम् इन्धने भूमेः उर्वरा शक्मेश्च वर्धनाय उपयुज्यते। धेनोः मूत्रेण यकृद्रोगाः नश्यन्ति। धेनोः दुग्धेन दधि, तर्क, नवीनतं, घृतं च निर्मीयते। धेनोः दुग्धं मधुरं पश्यं हितकारि च भवति। धेनूनां सेवय श्री कृष्णः गोपाल इति नाम्रा प्रसिद्धो अभवत्। भारतीय संस्कृतौ धेनूनां महत्वम् अधिकम् अस्ति अतएव उक्तं च “गावो विश्वस्य मातर”, इति।
8. उत्सवः (दीपावली)
भारतवर्षे बहवः उत्सवाः सन्ति। अत्र वर्षपर्यन्तम् उत्सवाः भवन्ति। तेषु प्रमुखतमा दीपावली। एषः उत्सव कार्तिकमा से कृष्णपक्षे अमावस्यायां भवति। एदर्थं जनाः स्वगृहाणि स्वच्छी कुर्वन्ति सुधया अवलिम्पन्ति। एतस्मिन् दिवसे विविधानि मिष्ठान्नानि पच्यन्ते। सन्ध्याकाले सर्वे नूतनवस्त्राणि धारयन्ति। धर्मिकाः जनाः लक्ष्मीदेवी पूजयन्ति। ते दीपमालिकाभिः स्वगृहाणि सज्जीकुर्वन्ति। अतः एव अस्य उत्सवस्य नाम दीपावली इति। एषः ऋतुपरिवर्तनं नवधान्यं प्राप्ति च सूचयति।
9. सदाचारः
सताम् आचारः अति सदाचारः कथ्यते। सज्जनानां महापुरुषाणां च आचरणं सदाचारः भवति। ते पित्रोः ज्येष्ठानां वृद्धानां गुरुणाम् च सम्मानं कुर्वन्ति सर्वान् जनान् आत्मीयान् इव पश्यन्ति सर्वैः सह शिष्टव्यवहार कुर्वन्ति। ते धर्मप्रियाः शिष्टाः विनीताः च सन्ति। अतः तेषाम् आचरण सर्वैः अनुकरणीयम्। सदाचारेण आत्मोन्नतिः जायते। सदाचारेण बुद्धि शुद्धयति। अतः सदाचारेण समाजोन्नतिः राष्ट्रान्नतिः अपि भवति।