MP Board Class 7th Sanskrit निबन्ध-लेखनम्
निबन्ध लेखन से छात्र/छात्राओं के अन्दर उनके रचना कौशल का विकास होता है, साथ ही कल्पनाशक्ति भी तीव्र होती जाती है। किसी भी विषय-वस्तु पर अपने विचार प्रस्तुत करने की स्वतंत्र अभिव्यक्ति विकास प्राप्त करती है। इसके लिए यहाँ कुछ निबन्ध दिये जाते हैं-
(1) सत्यम्
- सत्यात् परो नान्यः धर्मः।
- यद् वस्तु यथा भवति, तस्य तथैव कथनं सत्यमस्ति।
- विश्वस्य सर्वाणि वस्तूनि सत्यस्य एव आश्रितानि।
- सत्य वादिनः जनः समाजे सम्मानम् प्राप्नोति।
- सत्यस्य रक्षार्थम् महाराजः हरिश्चन्द्रः सर्वस्वम् अत्यजत्।
- सुखसमृद्धिहेतो सत्याचरणम् करणीयम्।
(2) परोपकारः
- अन्येषां पुरुषाणाम् उपकरणं परोपकारः कथ्यते।
- स्वार्थ परित्यज्य अन्येषां हित चिन्तनम्, तस्य च सम्पादनम् परोपकारः।
- परोपकारेण जनः प्रगतिम् प्राप्नोति।
- प्रकृतिः अपि सर्वेणाम् कल्याणं करोति।
- परोपकाराय मेघाः वर्षन्ति।
- वृक्षाः अपि परोपकाराय फलन्ति।
- परोपकारिणाम् जीवनं सफलम्।
(3) विद्यामहिमा
- विद्या कस्यापि विषयस्य उचितम् ज्ञानम् ददाति।
- विद्या विनयम् ददाति।
- विद्या एव समृद्धेः मूलम्।
- विद्या प्रच्छन्नं धनम्।
- विद्याहीनः जनः पशुतुल्यः भवति।
(4) भारतदेशः
- भारतवर्षः एकः विशाल देशः।
- अस्य उत्तर दिशायाम् हिमालयः अस्ति।
- अस्य दक्षिणतः महासागरः अस्य चरणौ प्रक्षालयति।
- अनेक नद्यः हिमालयात् निर्गच्छन्ति।
- देवाः अपि अत्र आगत्य निवसितुं वाञ्छन्ति।
दृष्टव्यः :
गायन्ति देवा किल गीतकानि, धन्यास्तु ये भारत भूमिभागे। स्वर्गायवर्गास्पदहेतुभूते, भवन्ति भूयः पुरुषाः सुरत्वात्॥
(5) पुस्तकम्
- पुस्तकानि मह्यम् अतीव रोचन्ते।
- पुस्तकानि ज्ञानस्य भण्डारः भवन्ति।
- पुस्तकानि अस्माकं मित्राणि सन्ति।
- पुस्तकानां सङ्गति लाभप्रदा भवति।
- अस्माभिः पुस्तकानि रक्षणीयानि।
(6) उद्यानम्
- उद्यानम् अत्यन्तं रमणीयं भवति।
- बालकाः उद्यानं क्रीडन्ति।
- उद्याने तडागः अपि अस्ति।
- जनाः उद्यानं भ्रमणार्थं गच्छन्ति।
- खगाः वृक्षेषु निवसन्ति।
(7) विद्यालयः
- मम विद्यालयः ‘खाईखेड़ा’ ग्रामे स्थितः अस्ति।
- विद्यालयस्य भवनम् अतीवसुन्दरम् अस्ति।
- अहं विद्यालयं गत्वा गुरून् प्रणमामि।
- विद्यालये एकम् उद्यानम् अपि अस्ति।
- विद्यालये एक विशालं क्रीडाक्षेत्रम् अस्ति।
(8) धेनुः
- धेनुः अस्माकं माता अस्ति।
- धेनूनां विविधाः वर्णाः भवन्ति।
- धेनुः तृणानि भक्षयति।
- धेनुः जनेभ्यः मधुरं पयः प्रयच्छति।
- वयं धेनुं मातृरूपेण पूजयामः।
(9) महापुरुषः-आजादचन्द्रशेखरः
- पुरुषः महत्कार्यं कृत्वा महापुरुषः भवति।
- समाजहितार्थं राष्ट्रहितार्थं च यानि कार्याणि भवन्ति, तानि एव महत्कार्याणि भवन्ति।
- चन्द्रशेखर आजादः एवमेव राष्ट्रसेवी महापुरुषः आसीत्।
- 1906 ख्रीस्ताब्दे आजादचन्द्रशेखरस्य जन्म अभवत्।
- आजादचन्द्रशेखर: 1931 ख्रीस्ताब्दे इलाहबादनगरे (प्रयागनगरे) वीरगतिं प्राप्नोत्।